Hindi Quote in Blog by JUGAL KISHORE SHARMA

Blog quotes are very popular on BitesApp with millions of authors writing small inspirational quotes in Hindi daily and inspiring the readers, you can start writing today and fulfill your life of becoming the quotes writer or poem writer.

सहस्रं समा आद्यन्तनिहितोङ्कारेण पदान्यगायत् । सहस्रं समास्तथैवाक्षरशः । ततोऽपश्यज्ज्योतिर्मयं श्रियालिङ्गितं सुपर्णरथं शेषफणाच्छदितमौलिं मृगमुखं नरवपुषं शशिसूर्यहव्यवाहनात्मकनयनत्रयम् । ततः प्रजापतिः प्रणिपपात नमोनम इति । तथैवर्चाथ तमस्तौत् । उग्रमित्याह उग्रः खलु वा एष मृगरूपत्वात् । वीरमित्याह वीरो वा एष वीर्यवत्त्वात् । महाविष्णुमित्याह महतां वा अयं महान्रोदसी व्याप्य स्थितः । ज्वलन्तमित्याह ज्वलन्निव खल्वसाववस्थितः । सर्वतोमुखमित्याह सर्वतः खल्वयं मुखवान्विश्वरूपत्वात् । नृसिंहमित्याह यथा यजुरेवैतत् । भीषणमित्याह भीषा वा अस्मादादित्य उदेति भीतश्चन्द्रमा भीतो वायुर्वाति भीतोऽग्निर्दहति भीतः पर्जन्यो वर्षति । भद्रमित्याह भद्रः खल्वयं श्रिया जुष्टः । मृत्योर्मृत्युमित्याह मृत्योर्वा अयं मृत्युरमृतत्वं प्रजानामन्नादानाम् । नमामीत्याह यथा यजुरेवैतत् । अहमित्याह यथा यजुरेवैतत् ॥ २॥ अथ भगवांस्तमब्रवीत्प्रजापते प्रीतोऽहं किं तवेप्सितं तदाशंसेति । स होवाच भगवन्नव्यक्तादुत्पन्नोऽस्मि व्यक्तं मम कृत्यमिति पुराश्रावि । तत्राव्यक्तं भवानित्यज्ञायि व्यक्तं मे कथयेति । व्यक्तं वै विश्वं चराचरात्मकम् । यद्व्यज्यते तद्व्यक्तस्य व्यक्तत्वमिति । स होवाच न शक्नोमि जगत्स्रष्टुमुपायं मे कथयेति । तमुवाच पुरुषः प्रजापते शृणु सृष्टेरुपायं परमं यं विदित्वा सर्वं ज्ञास्यसि । सर्वत्र शक्ष्यसि सर्वं करिष्यसि । मय्यग्नौ स्वात्मानं हविर्ध्यायेत्तयैवानुष्टुभर्चा ।

Hindi Blog by JUGAL KISHORE SHARMA : 111840596
New bites

The best sellers write on Matrubharti, do you?

Start Writing Now