अन्तर्विकल्पशून्यस्य बहिःस्वच्छन्द-चारिणः।
भ्रान्तस्येव दशास्तास्तास्ताह-शा एव जानते ॥
यथातथोपदेशेन कृतार्थःसत्वबुद्धिमान्॥
आजीवमपिजिज्ञासुः परस्तत्र विमुह्यति॥
मोक्षो विषयवैरस्य बन्धो वैषयि को रसः ।
एतावदेव विज्ञानं यथेच्छसि तथा कुरु ॥
न त्वं देहो न ते देहो भोक्ता कर्ता न वा भवान् ।
चिद्रूपोऽसि सदा साक्षीनिरपेक्षः सुखं चर॥