(21) लभन्ते शरणं प्राप्ताः सर्वाण्येव सुखानि च । भवति रक्षके लोके भयं मनाग् न जायते ।।
(22,,) समर्थो न च संसारे वेगं रोद्धुं बली खलु। कम्पन्ते च त्रयो लोकाः गर्जनेन तव प्रभो।।
(23) श्रुत्वा नाम महावीरं वायुपुत्रस्य धीमतः।
भूतादयः पिशाचाश्च पलायन्ते हि दूरतः।।
(24) हनुमन्तं कपीशञ्च ध्यायन्ति सततं हि ये। नश्यन्ति व्याधयः तेषां रोगाः दूरीभवन्ति च।।
(25) मनसा कर्मणा वाचा ध्यायन्ति हि ये जनाः। दुःखानि च प्रणश्यन्ति हनुमन्तम् पुनः पुनः।।
(26) नृपाणाञ्च नृपो रामः तपस्वी रघुनन्दनः। तेषामपि च कार्याणि सिद्धानि भवता खलु ।।
(27) कामान्यन्यानि सर्वाणि कश्चिदपि करोति च । प्राप्नोति फलमिष्टं स जीवने नात्र संशयः।।
(28) कृतादिषु च सर्वेषु युगेषु स प्रतापवान् ।
यशः कीर्तिश्च सर्वत्र देदीप्यते महीतले ।।
(29) साधूनां खलु सन्तानां रक्षयिता कपीश्वरः। राक्षसकुलसंहर्ता रामस्य प्रिय वानर ।।
(30) सिद्धिदो निधिदस्त्वञ्च जनकनन्दिनी स्वयम् । दत्तवती वरं तुभ्यं जननी विश्वरूपिणी ।।
(31) कराग्रे वायुपुत्रस्य चौषधिः रामरूपिणी।
रामस्य कोशलेशस्य पादारविन्दवन्दनात्।।
(32) पूजया मारुतपुत्रस्य नरो प्राप्नोति राघवम् । जन्मनां कोटिसंख्यानां दूरीभवन्ति पातकाः।।
(33) देहान्ते च पुरं रामं भक्ताः हनुमतो सदा।
प्राप्य जन्मनि सर्वे हरिभक्ताः पुनः पुनः।।
(34) देवानामपि सर्वेषां संस्मरणं वृथा खलु। कपिश्रेष्ठस्य सेवा हि प्रददाति सुखं परम्।।
(35 ) करोति संकटं दूरं संकटमोचनो कपिः।
नाशयति च दुःखानि केवलं स्मरणं कपेः।।
(36) जयतु वानरेशश्च जयतु हनुमत्प्रभुः। गुरुदेवकृपातुल्यं करोतु मम मङ्गलम्।।
(37) श्रद्धया येन केनापि शतवारञ्च पठ्यते। मुच्यते बन्धनाच्छीघ्रम् प्राप्नोति परमं सुखम् ।।
(38) स्तोत्रं तु रामदूतस्य चत्वारिंशच्च संख्यकम् । पठित्वा सिद्धिमाप्नोति साक्षी कामरिपुः स्वयम् ।।
(39) सर्वदा रघुनाथस्य तुलसी सेवकः परम्।
विज्ञायेति कपिश्रेष्ठ वासं मे हृदये कुरु।।
(40) विघ्नोपनाशी पवनस्य पुत्रः कल्याणकारी हृदये कपीशः।
सौमित्रिणा राघवसीतया च सार्धं निवासं कुरु रामदूत ।।
जय श्रीराम ।। जय जय हनुमान।। ।