स होवाच न शक्नोमि जगत्स्रष्टुमुपायं मे कथयेति ।
तमुवाच पुरुषः प्रजापते शृणु
सृष्टेरुपायं परमं यं विदित्वा सर्वं ज्ञास्यसि ।
सर्वत्र शक्ष्यसि सर्वं करिष्यसि । मय्यग्नौ स्वात्मानं
हविर्ध्यायेत्तयैवानुष्टुभर्चा । ध्यानयज्ञोऽयमेव ।
ध्यानयज्ञमहिमा
एतद्वै महोपनिषद्देवानां गुह्यम् । न ह वा एतस्य साम्ना
नर्चा न यजुषार्थो नु विद्यते । य इमा वेद स सर्वान्कामानवाप्य
सर्वांल्लोकाञ्जित्वा मामेवाभ्युपैति न स पुनरावर्तते य एवं वेदेति ॥
निस्पृहो नाधिकारी स्यान्न कामी भण्डनप्रिया। नो विदग्धः प्रियं ब्रूयात् स्पष्ट वक्ता न वञ्चकः॥
भावार्थ :
विरक्त व्यक्ति किसी विषय का अधिकारी नहीं होता, जो व्यक्ति कामी नहीं होता, उसे बनाव - शृंगार की आवश्यकता नहीं होती । विद्वान व्यक्ति प्रिय नहीं बोलता तथा स्पष्ट बोलनेवाला ठग नहीं होता ।