अथ भगवांस्तमब्रवीत्प्रजापते प्रीतोऽहं किं तवेप्सितं
तदाशंसेति । स होवाच भगवन्नव्यक्तादुत्पन्नोऽस्मि
व्यक्तं मम कृत्यमिति पुराश्रावि । तत्राव्यक्तं भवानित्यज्ञायि
व्यक्तं मे कथयेति । व्यक्तं वै विश्वं चराचरात्मकम् ।
यद्व्यज्यते तद्व्यक्तस्य व्यक्तत्वमिति ।
कश्चित् कस्यचिन्मित्रं, न कश्चित् कस्यचित् रिपु:। अर्थतस्तु निबध्यन्ते, मित्राणि रिपवस्तथा ॥
//
न कोई किसी का मित्र है और न ही शत्रु, कार्यवश ही लोग मित्र और शत्रु बनते हैं ।
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः। पञ्च यत्र न विद्यन्ते न तत्र दिवसे वसेत ॥
जहां कोई सेठ, वेदपाठी विद्वान, राजा और वैद्य न हो, जहां कोई नदी न हो, इन पांच स्थानों पर एक दिन भी नहीं रहना चाहिए ।