*संस्कृत में हनुमान चालीसा*
|| जय श्री राम ||
हृद्दर्पणं नीरजपादयोश्च गुरोः पवित्रं रजसेति कृत्वा ।फलप्रदायी यदयं च सर्वम् रामस्य पूतञ्च यशो वदामि।।
स्मरामि तुभ्यम् पवनस्य पुत्रम् बलेन रिक्तो मतिहीनदासः।
दूरीकरोतु सकलञ्च दुःखं विद्यां बलं बुद्धिमपि प्रयच्छ ।।
जयतु हनुमद्देवो ज्ञानाब्धिश्च गुणाकरः।
जयतु वानरेशश्च त्रिषु लोकेषु कीर्तिमान् ।।
(1) दूतः कोशलराजस्य शक्तिमांश्च न तत्समः। अञ्जना जननी यस्य देवो वायुः पिता स्वयम्।।
(2) हे वज्रांग महावीर त्वमेव च सुविक्रमः। कुत्सितबुद्धिशत्रुस्त्वम् सुबुद्धेः प्रतिपालकः।।
(3) काञ्चनवर्णसंयुक्तः वासांसि शोभनानि च। कर्णयोः कुण्डले शुभ्रे कुञ्चितानि कचानि च।।
(4) वज्रहस्ती महावीरः ध्वजायुक्तो तथैव च ।
स्कन्धे च शोभते यस्य मुञ्जोपवीतशोभनम् ।।
(5) नेत्रत्रयस्य पुत्रस्त्वम् केशरीनन्दनो खलु।
तेजस्वी त्वं यशस्ते च वन्द्यते पृथिवीतले।।
(6) विद्यावांश्च गुणागारः कुशलोऽपि कपीश्वरः।
रामस्य कार्यसिद्ध्यर्थ मुत्सुको सर्वदैव च।।
(7) राघवेन्द्रचरित्रस्य रसज्ञो स प्रतापवान् ।
वसन्ति हृदये तस्य सीता रामश्च लक्ष्मणः।।
(8) वैदेहीसम्मुखे तेन प्रदर्शितस्तनुः लघुः।
लङ्का दग्धा कपीशेन विकटरूपधारिणा।।
(9 हताः रूपेण भीमेन सकलाः रजनकचराः।
कार्याणि कोशलेन्द्रस्य सफलीकृतवान् प्रभुः।।
(10) जीवितो लक्ष्मणस्तेन खल्वानीयौषधम् तथा । रामेण हर्षितो भूत्वा वेष्टितो हृदयेन सः।।
(11) प्राशंसत् मनसा रामः कपीशं बलपुङ्गवम्।
प्रियं समं मदर्थं त्वं कैकेयीनन्दनेन च ।।
(12) यशो मुखैः सहस्रैश्च गीयते तव वानर ।
हनुमन्तं परिष्वज्य प्रोक्तवान् रघुनन्दनः।।
(13) सनकादिसमाः सर्वे देवाः ब्रह्मादयोऽपि च। भारतीसहितो शेषो देवर्षिः नारदः खलु।।
(14) कुबेरो यमराजश्च दिक्पालाः सकलाः स्वयम्। पण्डिताः कवयो सर्वे शक्ताः न कीर्तिमण्डने।।
(15) उपकृतश्च सुग्रीवो वायुपुत्रेण धीमता। वानराणामधीपोऽभूद् रामस्य कृपया हि सः।।
(16) तवैव चोपदेशेन दशवक्त्रसहोदरः।
प्राप्नोतीति नृपत्वं सः जानाति सकलं जगत् ।।
(17) योजनानां सहस्राणि दूरे भुवो स्थितो रविः। सुमधुरं फलं मत्वा निगीर्णः भवता ननु।।
(18) मुद्रिकां कोशलेन्द्रस्य मुखे जग्राह वानरः। गतवानब्धिपारं सः नैतद् विस्मयकारकम्।।
(19) यानि कानि च विश्वस्य कार्याणि दुष्कराणि हि । भवद्कृपाप्रसादेन सुकराणि पुनः खलु ।।
(20) द्वारे च कोशलेशस्य रक्षको वायुनन्दनः।
तवानुज्ञां विना कोऽपि न प्रवेशितुमर्हति।।