श्री हरि
विष्णु समस्त भक्तों को शुभ बृहस्पतिवार वीरवार गुरुवार की हार्दिक शुभकामनाएं एवं बधाई
ब्रह्मदत्त
शुभ बृहस्पतिवार वीरवार गुरुवार.... जय श्री हरि भगवान विष्णु
नमस्कार आपको ब्रह्मदत्त त्यागी हापुड एवं सभी भक्तों का.... जय जय
नारायण नारायण हरि हरि तेरी लीला प्रभु न्यारी न्यारी हरी हरी ब्रह्मदत्त
IIIश्रीविष्णुसहस्रनामस्तोत्रम्III
IIIब्रह्मदत्त त्यागी हापुड़III
ॐ अथ सकल सौभाग्यदायक
IIIश्रीविष्णुसहस्रनामस्तोत्रम्III
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥१॥
यस्य द्विरदवक्राद्याः पारिषद्याः परः शतम् ।
विघ्नं निघ्नन्ति सततं विष्वकसेनं तमाश्रये ॥२॥
व्यासं वसिष्ठनप्ता शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥३॥
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥४॥
अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥५॥
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥६॥
ॐ नमो विष्णवे प्रभविष्णवे ।
IIIश्रीवैशम्पायन उवाचIII
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥७॥
युधिष्ठिर उवाच ।
किमेकं दैवतं लोके किं वाप्येकं परायणम् ।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ ८॥
को धर्मः सर्वधर्माणां भवतः परमो मतः
।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥९॥
IIIIश्री भीष्म उवाचIIII
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥१०॥
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन् नमस्यश्च यजमानस्तमेव च ॥११॥
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ १२॥
ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ १३॥
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥१४॥
➖ प्रस्तुतकर्ता ब्रह्मदत्त त्यागी हापुड़