श्रीराजराजेश्वरी मन्त्रमातृकास्तवः
कल्याणायुतपूर्णचन्द्रवदनां प्राणेश्वरानन्दिनीम्
पूर्णां पूर्णतरां परेशमहिषीं पूर्णामृतास्वादिनीम् ।
सम्पूर्णां परमोत्तमामृतकलां विद्यावतीं भारतीम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥१॥
एकारादिसमस्तवर्णविविधाकारैकचिद्रूपिणीम्
चैतन्यात्मकचक्रराजनिलयां चन्द्रान्तसञ्चारिणीम् ।
भावाभावविभाविनीं भवपरां सद्भक्तिचिन्तामणिम्
श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥२॥